Bhagavad Gita Chapter 11
Vishwarupa Darshana Yoga
55 verses
-
11.1
मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् । यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम ॥
Out of compassion for me, you have spoken of the supreme secret called the adhyatma (the knowledge of the Self). By this…
-
11.2
भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया । त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् ॥
The birth (bhava) and dissolution (apyaya) of beings have been heard from You in detail (vistarashah), O Lotus-eyed One …
-
11.3
एवमेतद्यथात्थ त्वमात्मानं परमेश्वर । द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम ॥
Even so, O Supreme Lord (Parameshvara), it is as you have described Yourself. I wish to see your Divine Form, O Purushot…
-
11.4
मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो । योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् ॥
If You think it possible for me to see this (tac chakyam), O Lord (Prabho), O Yogeshvara (Lord of yoga), then show me Yo…
-
11.5
श्रीभगवानुवाच पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः । नानाविधानि दिव्यानि नानावर्णाकृतीनि च ॥
The Blessed Lord said: See My forms (rupani), O Partha — by the hundreds (shatashah) and thousands (sahasrashah) — divin…
-
11.6
पश्यादित्यान्वसून्रुद्रान् अश्विनौ मरुतस्तथा । बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत ॥
See the Adityas, Vasus, Rudras, the two Ashvins, and the Maruts — see the many wonders (ashcharyani) never seen before (…
-
11.7
इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् । मम देहे गुडाकेश यच्चान्यद्द्रष्टुमिच्छसि ॥
See here today (adya) the entire universe (jagat krtsnam), with all moving (cara) and unmoving (acara) beings, in My bod…
-
11.8
न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा । दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् ॥
But you cannot see Me with this, your own eye. I give you a divine eye (divyam cakshu). Behold My divine Yoga!…
-
11.9
सञ्जय उवाच एवमुक्त्वा ततो राजन् महायोगेश्वरो हरिः । दर्शयामास पार्थाय परमं रूपमैश्वरम् ॥
Sanjaya said: Thus speaking, O King (rajan), the great Lord of yoga (maha-yogeshvara), Hari (Krishna), showed (darshayam…
-
11.10
अनेकवक्त्रनयनं अनेकाद्भुतदर्शनम् । अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् ॥
With many faces and eyes, with many wondrous sights, with many divine ornaments, with many divine weapons upraised……
-
11.11
दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् । सर्वाश्चर्यमयं देवम् अनन्तं विश्वतोमुखम् ॥
Wearing divine garlands (malya) and garments (ambara) — anointed with divine fragrance (gandha) — the all-wondrous (sarv…
-
11.12
दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता । यदि भाः सदृशी सा स्यात् भासस्तस्य महात्मनः ॥
If the splendor of a thousand suns were to blaze simultaneously in the sky, even that might resemble the splendor of tha…
-
11.13
तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा । अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा ॥
There, Arjuna (the Pandava) then saw the entire world — in all its manifold divisions — standing as one in the body of t…
-
11.14
ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः । प्रणम्य शिरसा देवं कृताञ्जलिरभाषत ॥
Then Dhananjaya (Arjuna), filled with wonder (vismaya), his hair standing on end (hrishta-roma), bowed his head (pranamy…
-
11.15
अर्जुन उवाच पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् । ब्रह्माणमीशं कमलासनस्थम् ऋषींश्च सर्वानुरगांश्च दिव्यान् ॥
Arjuna said: I see the gods (devah) in Your body (tava dehe), O God (deva), and all the various hosts of beings (bhuta-v…
-
11.16
अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् । नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप ॥
I see You with many arms (bahu), bellies (udara), mouths (vaktra), eyes (netra) — infinite form (ananta-rupa) everywhere…
-
11.17
किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् । पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् ॥
I see You with crown (kirita), mace (gada), and discus (cakra) — a mass of radiance (tejo-rashi) shining everywhere (sar…
-
11.18
त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् । त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे ॥
You are the Imperishable (akshara), the supreme to be known (paramam veditavyam); You are the ultimate resting place (pa…
-
11.19
अनादिमध्यान्तमनन्तवीर्यमनन्तबाहुं शशिसूर्यनेत्रम् । पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् ॥
I see you without beginning, middle, or end, of infinite power, of infinite arms, with the sun and moon as your eyes, bl…
-
11.20
द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः । दृष्ट्वाऽद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् ॥
This space between heaven (dyava) and earth (prthivi) and all the directions are pervaded (vyaptam) by You alone (tvayai…
-
11.21
अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति । स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः ॥
These multitudes of gods (sura-sangha) enter into You; some, frightened (bhitah), praise You with joined palms (pranjali…
-
11.22
रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च । गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे ॥
The Rudras, Adityas, Vasus, Sadhyas, Vishvadevas, the two Ashvins, Maruts, Ushmapas, and hosts of Gandharvas, Yakshas, A…
-
11.23
रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् । बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् ॥
Seeing Your great form (rupam mahat) with many mouths (vaktra) and eyes (netra), O mighty-armed (Maha-baho), with many a…
-
11.24
नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् । दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो ॥
Seeing You touching the sky (nabhah-sprsha), blazing (dipta), many-colored (aneka-varna), with gaping mouths (vyattanana…
-
11.25
दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि । दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास ॥
Seeing Your mouths with terrible tusks (damshtra-karala), resembling the fires of cosmic dissolution (kalanala-sannibha)…
-
11.26
अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसंघैः । भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः ॥
And there — all the sons of Dhritarashtra together with the host of kings, and Bhishma, Drona, and Karna, and our own ch…
-
11.27
वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि । केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः ॥
They rush into your terrible mouths with fearful tusks/fangs. Some are seen stuck between the teeth, their heads crushed…
-
11.28
यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति । तथा तवामी नरलोकवीराः विशन्ति वक्त्राण्यभिविज्वलन्ति ॥
As the many swift currents of rivers flow toward the ocean alone, so these heroes of the world enter Your blazing mouths…
-
11.29
यथा प्रदीप्तं ज्वलनं पतङ्गाः विशन्ति नाशाय समृद्धवेगाः । तथैव नाशाय विशन्ति लोकाः तवापि वक्त्राणि समृद्धवेगाः ॥
As moths rush with great speed into a blazing fire for their destruction, so the worlds rush into Your mouths for their …
-
11.30
लेलिह्यसे ग्रसमानः समन्ताल् लोकान्समग्रान्वदनैर्ज्वलद्भिः । तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो ॥
You lick up, consuming all the worlds from all sides with Your blazing mouths. Your fierce rays fill the entire universe…
-
11.31
आख्याहि मे को भवान् उग्ररूपो नमोऽस्तु ते देववर प्रसीद । विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् ॥
Tell me who you are in this terrible form! Salutations to you, O best of gods — be gracious! I wish to know you, the Pri…
-
11.32
श्रीभगवानुवाच कालोऽस्मि लोकक्षयकृत् प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः । ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः ॥
The Blessed Lord said: I am Time, the great World-Destroyer, matured, engaged here in destroying the worlds. Even withou…
-
11.33
तस्माद्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून्भुङ्क्ष्व राज्यं समृद्धम् । मयैवैते निहताः पूर्वं मेव निमित्तमात्रं भव सव्यसाचिन् ॥
Therefore, arise and win glory! Conquer the enemies and enjoy the prosperous kingdom. By Me alone they have already been…
-
11.34
द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् । मया हतांस्त्वं जहि मा व्यथिष्ठाः युध्यस्व जेतासि रणे सपत्नान् ॥
Drona, Bhishma, Jayadratha, Karna, and the other warrior-heroes — already slain by Me — you slay. Be not distressed. Fig…
-
11.35
सञ्जय उवाच एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी । नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य ॥
Sanjaya said: Having heard these words of Keshava, the crown-wearer (Arjuna), trembling with joined palms, bowed and aga…
-
11.36
स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च । रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसंघाः ॥
It is fitting, O Hrishikesha, that the world rejoices and is filled with love at your glorification; the demons flee in …
-
11.37
कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे । अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् ॥
And why should they not bow to You, O Great Soul, who are greater even than Brahma the creator? O Infinite, O Lord of go…
-
11.38
त्वमादिदेवः पुरुषः पुराणः त्वमस्य विश्वस्य परं निधानम् । वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप ॥
You are the Primal God, the Ancient Person; You are the supreme resting place of this universe. You are the knower, the …
-
11.39
वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च । नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते ॥
You are Vayu, Yama, Agni, Varuna, the Moon, Prajapati, and the Great-Grandsire. Salutations, a thousand times salutation…
-
11.40
नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व । अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः ॥
Salutation from before and from behind You; salutation to You from all sides, O All! You of infinite power and immeasura…
-
11.41
सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति । अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि ॥
Whatever I have said presumptuously — 'Hey Krishna, Hey Yadava, Hey Friend' — out of negligence or even out of love, not…
-
11.42
यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु । एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् ॥
And whatever insult has been shown to You in jest — while playing, resting, sitting, or eating — alone or in the presenc…
-
11.43
पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् । न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव ॥
You are the father of this world of the moving and the unmoving; You are its worshipped teacher, the greatest. There is …
-
11.44
तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् । पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् ॥
Therefore, bowing, prostrating my body, I seek Your grace, O Adorable Lord. As a father bears with a son, a friend with …
-
11.45
अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे । तदेव मे दर्शय देवरूपं प्रसीद देवेश जगन्निवास ॥
I am thrilled at having seen what was never seen before, and yet my mind is shaken with terror. Show me that divine form…
-
11.46
किरीटिनं गदिनं चक्रहस्तम् इच्छामि त्वां द्रष्टुमहं तथैव । तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते ॥
I wish to see You thus — with crown, mace, and discus in hand — in that very form, the four-armed form. Assume that form…
-
11.47
श्रीभगवानुवाच मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् । तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् ॥
The Blessed Lord said: By My grace, O Arjuna, this supreme form has been shown to you by My own Yogic power — luminous, …
-
11.48
न वेदयज्ञाध्ययनैर्न दानैः न च क्रियाभिर्न तपोभिरुग्रैः । एवंरूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर ॥
Not through the Vedas, nor through sacrifice, nor through study, nor through charity, nor through ritual actions, nor th…
-
11.49
मा ते व्यथा मा च विमूढभावः दृष्ट्वा रूपं घोरमीदृङ्ममेदम् । व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य ॥
Do not be frightened, do not be confused, having seen this terrible form of Mine. With fear dispelled and glad-hearted, …
-
11.50
सञ्जय उवाच इत्यर्जुनं वासुदेवस् तथोक्त्वा स्वकं रूपं दर्शयामास भूयः । आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर् महात्मा ॥
Sanjaya said: Having thus spoken to Arjuna, Vasudeva (Krishna) showed his own form again. The Mahatman, having assumed a…
-
11.51
अर्जुन उवाच दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन । इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः ॥
Arjuna said: Having seen this gentle human form of Yours, O Janardana, I am now composed in mind and restored to my own …
-
11.52
श्रीभगवानुवाच सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम । देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः ॥
The Blessed Lord said: This form of Mine which you have seen is very difficult to behold. Even the gods ever long to see…
-
11.53
नाहं वेदैर्न तपसा न दानेन न चेज्यया । शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा ॥
Neither by the Vedas, nor by austerities, nor by gifts, nor by sacrifice can I be seen in such a form as you have seen M…
-
11.54
भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन । ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप ॥
But by undivided devotion (ananya-bhakti), O Arjuna, I can thus be truly known, and seen, and entered into, O Parantapa.…
-
11.55
मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः । निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव ॥
One who does My work, who regards Me as supreme, who is devoted to Me, free from attachment, without enmity toward any b…