Bhagavad Gita Chapter 1
Arjuna Vishada Yoga
47 verses
-
1.1
धृतराष्ट्र उवाच । धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः । मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय ॥ १ ॥
Dhritarashtra said: O Sanjaya, what did my sons and the sons of Pandu do when they assembled on the holy field of Kuruks…
-
1.2
सञ्जय उवाच । दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा । आचार्यमुपसङ्गम्य राजा वचनमब्रवीत् ॥ २ ॥
Sanjaya said: Having seen the army of the Pandavas arrayed for battle, King Duryodhana then approached his teacher Drona…
-
1.3
पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् । व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता ॥ ३ ॥
O teacher, behold this great army of the sons of Pandu, so skillfully arrayed by your own intelligent disciple, the son …
-
1.4
अत्र शूरा महेष्वासा भीमार्जुनसमा युधि । युयुधानो विराटश्च द्रुपदश्च महारथः ॥ ४ ॥
Here in this army are many heroic bowmen equal in fighting to Bhima and Arjuna: the great warriors Yuyudhana, Virata, an…
-
1.5
धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् । पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुङ्गवः ॥ ५ ॥
Dhrishtaketu, Chekitana, the valiant king of Kashi, Purujit, Kuntibhoja, and Shaibya — the greatest among men.…
-
1.6
युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् । सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः ॥ ६ ॥
The valiant Yudhamanyu, the mighty Uttamaujas, the son of Subhadra (Abhimanyu), and the sons of Draupadi — all are great…
-
1.7
अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम । नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते ॥ ७ ॥
But know also, O best of Brahmins, the distinguished commanders on our side. For your information I name the leaders of …
-
1.8
भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः । अश्वत्थामा विकर्णश्च सौमदत्तिस्तथैव च ॥ ८ ॥
Yourself (Drona), Bhishma, Karna, and Kripa — always victorious in battle; Ashwatthama, Vikarna, and also the son of Som…
-
1.9
अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः । नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः ॥ ९ ॥
And there are many other heroes who have risked their lives for my sake, armed with various weapons, all skilled in warf…
-
1.10
अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् । पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् ॥ १० ॥
Our army, protected by Bhishma, is unlimited; while their army, protected by Bhima, is limited.…
-
1.11
अयनेषु च सर्वेषु यथाभागमवस्थिताः । भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि ॥ ११ ॥
Therefore all of you, stationed at your respective positions in the array, must protect Bhishma above all.…
-
1.12
तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः । सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् ॥ १२ ॥
Then the powerful grandsire Bhishma, the eldest of the Kuru dynasty, roared like a lion and blew his conch loudly, bring…
-
1.13
ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः । सहसैवाभ्यहन्यन्त स च शब्दस्तुमुलोऽभवत् ॥ १३ ॥
Thereupon, conches, kettledrums, tabors, trumpets, and horns were suddenly played all at once, and the combined noise wa…
-
1.14
ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ । माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः ॥ १४ ॥
Then from the midst of the two armies, Krishna and Arjuna, seated in their magnificent chariot yoked with white horses, …
-
1.15
पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः । पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः ॥ १५ ॥
Krishna blew His conch called Panchajanya; Arjuna blew his conch Devadatta; and Bhima, the doer of formidable deeds, ble…
-
1.16
अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः । नकुलः सहदेवश्च सुघोषमणिपुष्पकौ ॥ १६ ॥
King Yudhishthira, the son of Kunti, blew the conch Anantavijaya; Nakula and Sahadeva blew the Sughosha and Manipushpaka…
-
1.17
काश्यश्च परमेष्वासः शिखण्डी च महारथः । धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः ॥ १७ ॥
The King of Kashi, the supreme archer; the great warrior Shikhandi; Dhrishtadyumna, Virata, and the unconquered Satyaki.…
-
1.18
द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते । सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् ॥ १८ ॥
And Drupada, the sons of Draupadi, and the mighty-armed son of Subhadra — O lord of the earth — all blew their respectiv…
-
1.19
स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् । नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् ॥ १९ ॥
The tumultuous sound rent the hearts of Dhritarashtra's sons, making both heaven and earth resound.…
-
1.20
अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः । प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः ॥ २० ॥
At that time, seeing Dhritarashtra's sons standing arrayed and as weapons were about to be discharged, Arjuna — whose fl…
-
1.21
हृषीकेशं तदा वाक्यमिदमाह महीपते । अर्जुन उवाच सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत ॥ २१ ॥
Then Arjuna spoke these words to Krishna, O lord of the earth: O Achyuta (the infallible), please place my chariot betwe…
-
1.22
यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् । कैर्मयाह सह योद्धव्यमस्मिन् रणसमुद्यमे ॥ २२ ॥
So that I may see those who have come here eager to fight, and know with whom I must contend in this great battle.…
-
1.23
योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः । धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः ॥ २३ ॥
Let me see those who have assembled here to fight, wishing to please the evil-minded son of Dhritarashtra.…
-
1.24
सञ्जय उवाच । एवमुक्तो हृषीकेशो गुडाकेशेन भारत । सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् ॥ २४ ॥
Sanjaya said: O Dhritarashtra, thus addressed by Arjuna, Krishna drove that finest of chariots into the midst of the two…
-
1.25
भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् । उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति ॥ २५ ॥
In the presence of Bhishma, Drona, and all the kings of the earth, Krishna said: O Partha, behold all these Kurus assemb…
-
1.26
तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् । आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा ॥ २६ ॥
There, Arjuna saw standing before him fathers, grandfathers, teachers, maternal uncles, brothers, sons, grandsons, and f…
-
1.27
श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि । तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् ॥ २७ ॥
Fathers-in-law and dear friends too — in both armies — seeing all these kinsmen standing there, Arjuna, son of Kunti, wa…
-
1.28
कृपया परयाऽऽविष्टो विषीदन्निदमब्रवीत् । अर्जुन उवाच दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् ॥ २८ ॥
Overcome by profound compassion, Arjuna spoke in sorrow: O Krishna, seeing my own people standing here eager to fight,…
-
1.29
सीदन्ति मम गात्राणि मुखं च परिशुष्यति । वेपथुश्च शरीरे मे रोमहर्षश्च जायते ॥ २९ ॥
My limbs fail and my mouth dries up; my body quivers and my hair stands on end.…
-
1.30
गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते । न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः ॥ ३० ॥
My bow Gandiva slips from my hand, my skin burns all over; I am unable to stand, and my mind seems to whirl.…
-
1.31
निमित्तानि च पश्यामि विपरीतानि केशव । न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे ॥ ३१ ॥
O Keshava, I see only bad omens, and I foresee no good in killing my own kinsmen in battle.…
-
1.32
न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च । किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥ ३२ ॥
O Krishna, I desire neither victory nor kingdom nor pleasures. O Govinda, of what use is a kingdom to us, or enjoyment, …
-
1.33
येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च । त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च ॥ ३३ ॥
Those for whose sake we desire kingdom, enjoyment, and pleasures — they stand here in battle, having given up life and w…
-
1.34
आचार्याः पितरः पुत्रास्तथैव च पितामहाः । मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा ॥ ३४ ॥
Teachers, fathers, sons, grandfathers, maternal uncles, fathers-in-law, grandsons, brothers-in-law, and other relatives.…
-
1.35
एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन । अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते ॥ ३५ ॥
O Madhusudana, I do not wish to kill them, even though they might kill me — not even for the sovereignty of the three wo…
-
1.36
निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन । पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः ॥ ३६ ॥
O Janardana, what pleasure could come to us from killing Dhritarashtra's sons? Only sin would befall us from slaying the…
-
1.37
तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् । स्वजनं हि कथं हत्वा सुखिनः स्याम माधव ॥ ३७ ॥
Therefore we are not justified in killing Dhritarashtra's sons, our own kinsmen. O Madhava, how could we be happy after …
-
1.38
यद्यप्येते न पश्यन्ति लोभोपहतचेतसः । कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् ॥ ३८ ॥
Even if these men, whose minds are blinded by greed, do not see the wrong in destroying the family or the sin in betrayi…
-
1.39
कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् । कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन ॥ ३९ ॥
O Janardana, how should we not know to turn away from this sin — we who can clearly see the evil in the destruction of t…
-
1.40
कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः । धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत ॥ ४० ॥
When the family is destroyed, the eternal family traditions are lost; and when tradition is lost, irreligion (adharma) o…
-
1.41
अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः । स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः ॥ ४१ ॥
O Krishna, when irreligion prevails, the women of the family become corrupted; O Varshneya, when women are corrupted, un…
-
1.42
सङ्करो नरकायैव कुलघ्नानां कुलस्य च । पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः ॥ ४२ ॥
This unwanted progeny leads to hell — for the destroyers of the family and the family itself. Their ancestors fall, bein…
-
1.43
दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः । उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः ॥ ४३ ॥
By the evil deeds of those who destroy the family and create unwanted progeny, all kinds of community traditions and ete…
-
1.44
उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन । नरके नियतं वासो भवतीत्यनुशुश्रुम ॥ ४४ ॥
O Janardana, we have heard from the scriptures that those whose family traditions are destroyed must dwell in hell for c…
-
1.45
अहो बत महत्पापं कर्तुं व्यवसिता वयम् । यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः ॥ ४५ ॥
Alas! How strange it is that we are preparing to commit such a great sin — driven by the desire for royal happiness, we …
-
1.46
यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः । धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् ॥ ४६ ॥
If the armed sons of Dhritarashtra were to kill me in battle — unarmed and unresisting — that would be better for me.…
-
1.47
सञ्जय उवाच । एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् । विसृज्य सशरं चापं शोकसंविग्नमानसः ॥ ४७ ॥
Sanjaya said: Having thus spoken on the battlefield, Arjuna cast aside his bow and arrows and sat down in the chariot, h…